उपदेशे इति वर्तते। अजन्ता ये उपदेशे धातवः तेषां कर्तृयकि अन्यतरस्याम् आदिरुदात्तो भवति। लूयते केदारः स्वयम् एव, लूयते केदारः स्वयम् एव। स्तीर्यते केदारः स्वयम् एव, स्तीर्यते केदरः स्वयम् एव। यदा आद्युदात्तत्वं न भवति तदा लसर्वधातुकनिघाते कृते यक एव स्वरो भवति। जनादीनाम् उपदेशे एवात्वं द्रष्टव्यम्। तत्र अप्ययं स्वर इष्यते। जायते स्वयम् एव। सायते स्वयम् एव। खायते स्वयम् एव। अचः इति किम्? भिद्यते स्वयम् एव। कर्तृग्रहणं किम्? लूयते केदारो देवदत्तेन।
"कर्तृयकि" इति। सार्वधातुकं कर्तृशब्देनोक्तम्()। अभिधानेऽभिधेयोपचारात्()।
तत्र यः कत्र्तरि यक्? स कर्तृयक्(), "सप्तमी" (२।१।
४०) इति योगविभागात्? समासः। "लूयते केदारः स्वयमेव" इति। लुनाति केदारं देवदत्तः,
केदारो लवनक्रियया व्याप्तुमिष्टतमत्वात्? कर्म।
यदा तु सौकार्यात्? तस्यैव कर्त्तृत्वं विवक्ष्यते तदाऽसौ कत्र्ता भवति;
"कर्मवत्? कर्मणा तुल्यक्रियः" (३।१।
८७) इत्यतिदेशात्? यगात्मनेपदञ्च। "स्तीर्यते" इति। "स्तृ आच्छादने" (धा।पा।
१२५२) [स्तृञ्? आचछादने--धा।पा।] "ॠत इद्धातोः"
७।१।१००, "हलि च"
८।२।७७ इती दीर्घः। "लसार्वधातुकनिघाते कृते" इति। "अदुपदेशभक्तयक एव स्वरो भवति" इति। प्रत्ययलक्षणः।
अथेह कथं भवति--जायते स्वयमेव, सायते स्वयमेव, खायते स्वयमेवेति, यावता "ये विभाषा"
६।४।४३ इत्यात्वे कृते सत्युत्तरकालं जनादयोऽजन्ता भवन्ति,
न तूपदेश? इत्याह--"जनादनाम्()" इत्यादि। जनादीनां ह्रात्वविधावनुदात्तोपदेशग्रहणमनुवत्र्तते। तेन तेषामुपदेश एवात्त्वं द्रष्टव्यम्()। "जायते स्वयमेव" इति। कथं पुनरकर्मकत्र्ता,
यावता जनिरकर्मकः? अन्तर्भावितण्यर्थं सकर्मको भवतीत्यदोषः।
"लूयते केदारो देवदत्तेन" इति।
अत्र शुद्धकर्मण्यात्मनेपदविधानात्? कर्तृयग्न भवति॥